वांछित मन्त्र चुनें

क्र॒व्याद॑म॒ग्निं प्र हि॑णोमि दू॒रं य॒मरा॑ज्ञो गच्छतु रिप्रवा॒हः । इ॒हैवायमित॑रो जा॒तवे॑दा दे॒वेभ्यो॑ ह॒व्यं व॑हतु प्रजा॒नन् ॥

अंग्रेज़ी लिप्यंतरण

kravyādam agnim pra hiṇomi dūraṁ yamarājño gacchatu ripravāhaḥ | ihaivāyam itaro jātavedā devebhyo havyaṁ vahatu prajānan ||

पद पाठ

क्र॒व्य॒ऽअद॑म् । अ॒ग्निम् । प्र । हि॒णो॒मि॒ । दू॒रम् । य॒मऽरा॑ज्ञः । ग॒च्छ॒तु॒ । रि॒प्र॒ऽवा॒हः । इ॒ह । ए॒व । अ॒यम् । इत॑रः । जा॒तऽवे॑दाः । दे॒वेभ्यः॑ । ह॒व्यम् । व॒ह॒तु॒ । प्र॒ऽजा॒नन् ॥ १०.१६.९

ऋग्वेद » मण्डल:10» सूक्त:16» मन्त्र:9 | अष्टक:7» अध्याय:6» वर्ग:21» मन्त्र:4 | मण्डल:10» अनुवाक:1» मन्त्र:9


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (क्रव्यादम्-अग्नि दूरं प्रहिणोमि) शवरूप मांस-भक्षक अग्नि को सुगन्ध आहुतिचमस द्वारा दूर हटाता हूँ (रिप्रवाहः-यमराज्ञः-गच्छतु) वह शववाहक अग्नि पृथिवीतल से ऊपर उठकर विनाप्रदेशों को जहाँ कि प्रत्येक वस्तु विछिन्न अतिसूक्ष्म होकर लीन हो जाती है, उन अन्तरिक्षस्थानों को प्राप्त हो (अयम्-इतरः-जातवेदाः प्रजानन् देवेभ्यः-हव्यं वहतु) चमसाहुतियों द्वारा हव्यवाहक यह प्रसिद्धाग्नि जलती हुई दिव्य पदार्थों के लिये जीवनलाभ के हेतु इस चमसरूप हव्य का वहन करे ॥९॥
भावार्थभाषाः - घृत और सुगन्ध कपूर आदि वस्तुओं की आहुति से शवदुर्गन्धवाहक अग्निज्वालाओं की शान्ति हो जाती है और सुगन्धित हव्यप्रसारक अग्निज्वालाओं का उदय होता है ॥९॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (क्रव्यादम् अग्निं दूरं प्रहिणोमि) शवरूप-मांसभक्षकमग्निं पूर्वमन्त्रोक्तचमसाहुतिभिर्दूरमतिदूरं प्रहिणोमि प्रेरयामि प्रक्षिपामि (रिप्रवाहः-यमराज्ञः-गच्छतु) रिप्रवाहः-शवरुपामेध्यवाहकोऽग्निः “तद्यदमेध्यं रिप्रं तत्” [श०३।१।२।११] यमराज्ञो यमो यमनशीलः कालोऽन्तकारी कालो मृत्यू राजा येषां तान् मृत्युराजकदेशान् गच्छतु-गच्छति, यतो हि मृतः प्राणी मृत्युदेशान् विनाशप्रदेशान् गच्छति तस्मात्तं शीघ्रं विनाशप्रदेशान् नेतुं शववाहनोऽग्निरपि तान् प्रदेशान् शीघ्रं गच्छतीत्युक्तम् (अयम्-इतरः जातवेदाः-प्रजानन् देवेभ्यः-हव्यं वहत्) अयं चमसाहुतिलक्षितो जातवेदा अग्निर्ज्वलन् सन् दिव्यपदार्थेभ्यो जीवनलाभायैतच्चमसप्रक्षिप्तं हव्यं प्रापयतु ॥९॥